कालीयकम्

सुधाव्याख्या

कालस्य वर्णस्येदम् । ‘वृद्धाच्छः’ (४.२.११४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । क्वचित् ‘कालेयकम्’ इति पाठः । कलेरिदम् । ‘सर्वत्राग्निकलिभ्याम्’ (वा० ४.२) इति ढक् । ‘कालीयकं च कालेयं वर्णकं कान्तिदायकम्’ इति व्याडिः ॥