क्षौमम्

सुधाव्याख्या

क्षाविति । क्षौति । क्षूयते, वा । ‘टु क्षु शब्दे’ (अ० प० से०) । ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् । ‘क्षोमपट्टे दुकूलेऽस्त्री’ (इति मेदिनी) । क्षुमाया विकारः । क्षौमम् इति स्वामी । पर्यायान्तराभिधानाय पुनरभिहितम् ॥


प्रक्रिया

धातुः -


टुक्षु शब्दे
क्षु - आदिर्ञिटुडवः 1.3.5
क्षु + मन् - अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् (१.१४०) । उणादिसूत्रम् ।
क्षु + म - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षोम - सार्वधातुकार्धधातुकयोः 7.3.84
क्षोम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षोम + अम् - अतोऽम् 7.1.24
क्षोमम् - अमि पूर्वः 6.1.107