गुत्सः

सुधाव्याख्या

हारेति । यष्टीनां भेदात् हारभेदाः स्युः । गुध्यते । ‘गुध परिवेष्टने’ (दि० प० से०) । ‘उन्दिगुधिकुषिभ्यश्च’ (उ० ३.६८) इति सः कित् । बाहुलकाद्भष् भावो न । ‘गुत्सः स्यात्स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः’ इति दन्त्यान्तेषु मेदिनी । छान्तोऽपि । ‘स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः’ (इति मेदिनी) । गूयते । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) । बाहुलकाच्छक् ।‘द्वात्रिंशल्लतिकोगुच्छः’ ॥