देवच्छन्दः

सुधाव्याख्या

देवेति । ‘हारः’ शतयष्टिकः सन् । देवैश्छन्द्यते । ‘छदि संवरणे’ । (चु० प० से०) । घञ् (३.३.१९) ॥ ‘यष्टिर्हारलताशस्त्रभेदयोः’ इति विश्वः । ‘यष्टिर्लता सरः सरिः’ इत्यनेकार्थमाधवी ।


प्रक्रिया

धातुः -


छदिँ संवरणे
छद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छ + नुम् + द् - इदितो नुम् धातोः 7.1.58
छंद् - नश्चापदान्तस्य झलि 8.3.24
छन्द् - अनुस्वारस्य ययि परसवर्णः 8.4.58
देव + भिस् + छन्द् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19, उपपदमतिङ् 2.2.19
देव + छन्द् + अ - सुपो धातुप्रातिपदिकयोः 2.4.71
देव + तुक् + छन्द - छे च 6.1.73
देव + त् + छन्द - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
देव द् छन्द - झलां जशोऽन्ते 8.2.39
देव ज् छन्द - स्तोः श्चुना श्चुः 8.4.40
देव च् छन्द - खरि च 8.4.55
देवच्छन्द + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
देवच्छन्द + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
देवच्छन्द + रु - ससजुषो रुः 8.2.66
देवच्छन्द + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
देवच्छन्दः - खरवसानयोर्विसर्जनीयः 8.3.15