हारः

सुधाव्याख्या

हेति । ह्रियते मनोऽनेन । ह्रियते वा । घञ् (३.३.१९) यद्वा हारयति मनः । स्वार्थण्यन्तादच् (३.१.१३४) । ‘हारो मुक्तासरे युधि’ (इति मेदिनी) ॥