कुण्डलम्

सुधाव्याख्या

कुण्डेति । कुण्डते, कुण्ड्यते, वा । ‘कुडि दाहे’ (भ्वा० आ० से०) । ‘कुडि रक्षायाम्’ (चु० प० से०) वा । वृषादित्वात् (उ० १.१०६) कलच् । कुण्डं कुण्डलाकारं लाति वा । ‘कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चनद्रुगुडूच्योः स्त्री’ (इति मेदिनी) ॥