तरलः

सुधाव्याख्या

तेति । ‘तरस्तु तरणे पुंसि’ (इति मेदिनी) । तरं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘तरलं चञ्चले षिङ्गे भास्वरेऽपि त्रिलिङ्गकम् । हारमध्यमणौ पुंसि यवागूसुरयोः स्त्रियाम्’ (इति मेदिनी) ॥ हारस्य मध्यं हारमध्यं गच्छति । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति डः ।