नराः

सुधाव्याख्या

नरति । नृणाति वा । ‘नॄ नये’ (भ्वा०, क्र्या० प० से०) । अच् (३.१.१३४) ‘नरोऽजे मनुजेऽर्जुने । क्लीबं तु रामकर्पूरे’ (इति मेदिनी)—नयन्ति पूर्वपुरुषानुत्तमां गतिम् । ‘नयतेर्डिच्च’ (उ० २.१००) इति ऋन्, डित्त्वाट्टिलोपः इति मुकुटः । तन्न । एवं सत्यदन्तरूपानुपपत्तेः । ऋदन्तरूपापत्तेश्च । ऋदन्तस्य वक्ष्यमाणत्वाच्च ॥