मानुषाः

सुधाव्याख्या

मनुष्या इति । मनोरपत्यम् । ‘मनोर्जातावञ्यतौ षुक् च’ (४.१.१६१) । स्त्रियाम् ‘-हयगवय-’ (वा० ४.१.६३) इति प्रतिप्रसवेन ङीष् (४.१.६३) । ‘हलस्तद्धितस्य’ (६.४.१५०) इति यलोपः । मनुषी । ‘टिड्ढा-’ (४.१.१५) इति ङीषि मानुषी । जातिविवक्षायां ङीषः (४.१.६३) परत्वाद- ञन्तत्वात् (४.१.७३) ङीन् ॥