ओतुः

सुधाव्याख्या

ओतुरिति । अवति विष्ठाम्, आखुभ्यो गृहम्, वा । ‘अव रक्षणादौ’ (भ्वा० प० से०) । ‘सितनि-' (उ० १.६९) इति तुन् । ‘ज्वरत्वर-' (६.४.२०) इत्यूठौ । दीर्घः (६.१.१०१) गुण: (७.३.८४) ॥


प्रक्रिया

धातुः -


अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु
अव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अव् + तुन् - सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् (१.६९) । उणादिसूत्रम् ।
अव् + तु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ऊतु - ज्वरत्वरश्रिव्यविमवामुपधायाश्च 6.4.20
ओतु - सार्वधातुकार्धधातुकयोः 7.3.84
ओतु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ओतु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ओतु + रु - ससजुषो रुः 8.2.66
ओतु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ओतुः - खरवसानयोर्विसर्जनीयः 8.3.15