राशिः

सुधाव्याख्या

अश्नुते । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । ‘अशिपणाय्यो रुडायलुकौ च’ (उ० ४.१३३) इतीण् धातोरुडागमः । यद्वा रश्यते । रश सौत्रः शब्दार्थः - दीप्त्यर्थः- इति स्वामी । बाहुलकादिण् । ण्यन्तात् ‘अच इः’ (उ० ४.१३९) वा । ‘राशिर्मेषादिपुञ्जयोः’ (इति मेदिनी) ॥