यूथम्

सुधाव्याख्या

यूथमिति । यौति । यूयते, वा । ‘यु मिश्रणे’ (अ० प० से०) । ‘तिथपृष्ठगूथप्रोथाः’ (उ० २.१२) इति साधुः । ‘यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदे च योषिति’ (इति मेदिनी) ॥