कुलम्

सुधाव्याख्या

सजेति । सजातीयैरेव जन्तुभिरुपलक्षितम् । कोलति । ‘कुल संस्थाने बन्धुषु च’ (भ्वा० प० से०) । ‘इगुपध (३.१.१३५) इति कः । ‘कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीबम्’ (इति मेदिनी) ॥