सार्थः

सुधाव्याख्या

सरति, स्त्रियते, वा । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘सतेर्णित्’ (उ० २.५) इति थन् । ‘सार्थो वणिक्समूहे स्यादपि संघातमात्रके’ (इति मेदिनी) । ‘यूथादयश्च’ -इति मुकटश्चिन्त्यः ॥