पशुः

सुधाव्याख्या

इत्यादयो येऽत्रोक्ताः, ये च पूर्वोक्ताः सिंहादयः, वक्ष्यमाणाश्च ये गोमेषस्त्यश्वादयः, सर्वे ते पशुजातयः पशुशब्दवाच्याः । पश्यति सर्वमविशेषेण । ‘दृशिर् प्रेक्षणे' (भ्वा० प० अ०) । ‘अर्जिदृशि-' (उ० १.२७) इत्युः पशिरादेशश्च । यत्तु मुकुटः - पशेः सौत्रधातोः ‘अपष्ट्वादयः इति कुः' इति सुभूतिः –इत्याह । तदुक्तसूत्रास्मरणमूलकम् । पाश्यन्ते पाशैः - इति स्वाम्यप्येवम् ।


प्रक्रिया

धातुः -


दृशिँर् प्रेक्षणे
दृश्
पशिर् + कु - अर्जिदृशिकम्यमिपशिबाधामृजिपसितुक्धुक्दीर्घहकाराश्च (१.२७) । उणादिसूत्रम् ।
पशिर् + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पश् + उ - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
पशु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पशु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पशु + रु - ससजुषो रुः 8.2.66
पशु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पशुः - खरवसानयोर्विसर्जनीयः 8.3.15