रामः

सुधाव्याख्या

रमते अन्तर्भावितण्यर्थो वा । ‘ज्वलिति' (३.१.१४०) इति णः । रमन्तेऽस्मिन्ननेन वा । ‘हलश्च' (३.३.१२१) इति घञ् । ‘रामा योषाहिङ्गलिन्योः क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रैणुकेये हलायुधे । हये च पशुभेदे च त्रिषु चारौ सितेऽसिते' (इति मेदिनी) ॥