शरभः

सुधाव्याख्या

शृणाति । ‘शॄ हिंसायाम्' (क्र्या० प० से०) । ‘कॄशॄशलिकलिगर्दिभ्योऽभच्’ (उ० ३.१२२) । ‘अष्टापदे च करभे शरभः स्यान्मृगान्तरे' इति तालव्यादौ रभसः । 'शरभस्तु पशोर्भिदि । करभे वानरभिदि' (इति मेदिनी) ॥