गन्धर्वः

सुधाव्याख्या

गन्धेति । गन्धयति, गन्ध्यते, वा । वा ‘गन्ध अर्दने’ चुरादिः । अच् (३.१.१३४) । घञ् (३.३.१९) वा । अर्बति । ‘अर्ब गतौ' (भ्वा० प० से०) । अच् (३.१.१३४) । गन्धश्चासावर्बश्च शकन्ध्वादिः (वा. ६.१.९४) । यद्वा गन्धे अर्बो बोधोऽस्य । ‘गन्धर्बः पशुभेदे पुंस्कोकिलतुरंगयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च' इति (स्पर्शान्ते) विश्वमेदिन्यौ ॥


प्रक्रिया

धातुः -


गन्धँ अर्दने
गन्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गन्ध् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
गन्ध् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गन्ध
अर्बँ गतौ
अर्ब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्ब् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
अर्ब् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गन्ध + सु + अर्ब + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
गन्ध + अर्ब - सुपो धातुप्रातिपदिकयोः 2.4.71
गन्धर्ब - शकन्ध्वादिषु पररूपं वक्तव्यम् (6.1.94) । वार्तिकम् ।
गन्धर्व - वबयोरभेदः ।
गन्धर्व + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गन्धर्व + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गन्धर्व + रु - ससजुषो रुः 8.2.66
गन्धर्व + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गन्धर्वः - खरवसानयोर्विसर्जनीयः 8.3.15