गोक्षुरकः

सुधाव्याख्या

क्षुरति । ‘क्षुर विलेखने' (तु० प० से०) । ‘इगपध-' (३.१.१३५) इति कः । स्वार्थे कन् (५.३.७५) । गोर्गौर्वा क्षुरकः ॥


प्रक्रिया

धातुः - क्षुरँ विलेखने


क्षुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षुर् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
क्षुर् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क्षुर + सु + कन् - संज्ञायां कन् 5.3.75
क्षुर + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
क्षुर + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गो + ङस् + क्षुरक - षष्ठी 2.2.8
गोक्षुरक + सु - सुपो धातुप्रातिपदिकयोः 2.4.71
गोक्षुरक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोक्षुरक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोक्षुरक + रु - ससजुषो रुः 8.2.66
गोक्षुरक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोक्षुरकः - खरवसानयोर्विसर्जनीयः 8.3.15