बृहती

सुधाव्याख्या

वृहति । ‘वृह वृद्धौ' (भ्वा० प० आ०) । 'वर्तमाने पृषद्बृहत्-' (उ० २.८४) इति निपातः । शतृवत्त्वान् ङीप् (४.१.६) । ‘क्षुद्रायां क्षुद्रवार्ताक्यां बृहती छन्दसि क्वचित्' इति शाश्वतः ॥