निदिग्धिका

सुधाव्याख्या

निदीति । निदिह्यते स्म । ‘दिह उपचये' (अ० उ० अ०) । क्तः (३.२.१०२) । टाप् (४.१.४) स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

धातुः - दिहँ उपचये


दिह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नि + दिह् + क्त - निष्ठा 3.2.102
नि + दिह् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नि + दिघ् + त - दादेर्धातोर्घः 8.2.32
नि + दिघ् + ध - झषस्तथोर्धोऽधः 8.2.40
नि + दिग् + ध - झलां जश् झशि 8.4.53
नि + दिग्ध + सु + कन् - संज्ञायां कन् 5.3.75
नि + दिग्ध + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
नि + दिग्धक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
निदिग्धक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
निदिग्धक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
निदिग्धिका - अकः सवर्णे दीर्घः 6.1.101
निदिग्धका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निदिग्धका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निदिग्धिका + स् - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
निदिग्धिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68