सिंहपुच्छी

सुधाव्याख्या

सिंहपुच्छमस्याः सिंहपुच्छाकारपुष्पत्वात् ॥ ‘उपमानात् पक्षाच्च पुच्छाच्च' (वा० ४.१.५) इति ङीष् ॥


प्रक्रिया

सिंह + सु + पुच्छ + सु - सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च (2.2.24) । वार्तिकम् ।
सिंहपुच्छ - सुपो धातुप्रातिपदिकयोः 2.4.71
सिंहपुच्छ + ङीप् - उपमानात्पक्षाच्च पुच्छाच्च (4.1.55) । वार्तिकम् ।
सिंहपुच्छ + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सिंहपुच्छ् + ई - यस्येति च 6.4.148
सिंहपुच्छी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सिंहपुच्छी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सिंहपुच्छी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68