कण्टकारिका

सुधाव्याख्या

कण्टकानियर्ति । ‘ऋ गतौ’ (जु० प० अ०) । ‘कर्मण्यण्' (३.२.१) । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

धातुः - ऋ गतौ


कण्टक + शस् + ऋ + अण् - उपपदमतिङ् 2.2.19, कर्मण्यण् 3.2.1
कण्टक + ऋ + अ - सुपो धातुप्रातिपदिकयोः 2.4.71, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कण्टक + आर् + अ - अचो ञ्णिति 7.2.115
कण्टकार + सु + कन् - संज्ञायां कन् 5.3.75
कण्टकार + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कण्टकार + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कण्टकारक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कण्टकारक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कण्टकारका - अकः सवर्णे दीर्घः 6.1.101
कण्टकारका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कण्टकारका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कण्टकारिका + स् - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
कण्टकारिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68