अङ्घ्रिपर्णिका

सुधाव्याख्या

अङ्घ्रेरालभ्य पर्णान्यस्याः । ङीष् (४.१.५४) । स्वार्थे कन् (५.१.७५) ॥ अङ्घ्रिं मूलमारभ्य वल्लिरस्याः । ‘अङ्घ्रिवल्लिका'- इति मुकुटः ॥


प्रक्रिया

अङ्घ्रि + सु + पर्ण + जस् - अनेकमन्यपदार्थे 2.2.24
अङ्घ्रि + पर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
अङ्घ्रिपर्ण + ङीप् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
अङ्घ्रिपर्ण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अङ्घ्रिपर्ण् + ई - यस्येति च 6.4.148
अङ्घ्रिपर्णी + सु + कन् - संज्ञायां कन् 5.3.75
अङ्घ्रिपर्णी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
अङ्घ्रिपर्णी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अङ्घ्रिपर्णिक - केऽणः 7.4.13
अङ्घ्रिपर्णिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अङ्घ्रिपर्णिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अङ्घ्रिपर्णिक् + आ - यस्येति च 6.4.148
अङ्घ्रिपर्णिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्घ्रिपर्णिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्घ्रिपर्णिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68