कुठेरकः

सुधाव्याख्या

कुण्ठति । ‘शुठ प्रतीघाते’ ‘कुठि च' (भ्वा० प० से०) । ‘पति-कठि-कुठि' (उ० १.५८) इत्येरक् । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ ‘कुठ गुठ प्रतीघाते’ ‘कुठी च' इत्यतो ‘दर्दुरादयश्च' (उ० १.४०) इति ढ्रक् । पृषोदरादित्वात् (उ० ६.३.१०९) अनुषङ्गलोपः - इति मुकुटः । तन्न । कुठ धातोः सत्वे पृषोदरादित्वकल्पनावैयर्थ्यात् । ढ्रक्कल्पनाऽपि व्यर्था । एरकासिद्धत्वात् ॥


प्रक्रिया

धातुः - कुठिँ प्रतिघाते


कुठ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुठ् - आगमशास्त्रस्य अनित्यत्वान्न नुम् ।
कुठ् + एरक् - पतिकठिकुठिगडिगुडिदंशिभ्य एरक् (१.५८) । उणादिसूत्रम् ।
कुठ् + एर् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुठेर + कन् - संज्ञायां कन् 5.3.75
कुठेर + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुठेरक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुठेरक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुठेरक + रु - ससजुषो रुः 8.2.66
कुठेरक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुठेरकः - खरवसानयोर्विसर्जनीयः 8.3.15