कटिञ्जरः

सुधाव्याख्या

कठिनं जरयति । ‘जॄष्’ (दि० प० से०) । ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । पृषोदरादिः (६.३.१०९) ॥


प्रक्रिया

धातुः - जॄष् वयोहानौ


जॄ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जॄ + णिच् - हेतुमति च 3.1.26
जॄ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
जार् + इ - अचो ञ्णिति 7.2.115
कठि + अम् + जार् + इ + अण् - उपपदमतिङ् 2.2.19, कर्मण्यण् 3.2.1
कठि + जार् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कठि + जार् + अण् - णेरनिटि 6.4.51
कठि + जार् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कठिञ्जर - पृषोदरादीनि यथोपदिष्टम् 6.3.109
कठिञ्जर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कठिञ्जर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कठिञ्जर + रु - ससजुषो रुः 8.2.66
कठिञ्जर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कठिञ्जरः - खरवसानयोर्विसर्जनीयः 8.3.15