जम्वीरः

सुधाव्याख्या

जम्यते । ‘जमु अदने' (भ्वा० प० से०) । विच् (३.२.७५) । वीरयति । अच् (३.१.१३४) । जम् चासौ वीरश्च । ‘जंबीरः प्रस्थपुष्पे स्यात्तथा दन्तशठद्रुमे (इति मेदिनी) ॥


प्रक्रिया

धातुः - जमुँ अदने , वीर विक्रान्तौ


जमुँ अदने
जम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जम् + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
जम् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वीर विक्रान्तौ
वीर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वीर् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वीर् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जम् + सु + वीर + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
जम्वीर - सुपो धातुप्रातिपदिकयोः 2.4.71
जम्वीर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जम्वीर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जम्वीर + रु - ससजुषो रुः 8.2.66
जम्वीर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जम्वीरः - खरवसानयोर्विसर्जनीयः 8.3.15