करमर्दकः

सुधाव्याख्या

करं मृद्नाति । ‘मृद क्षोदे' (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् (५.३.७५) । ‘मकरन्दः करमर्दः शिरीषो मूर्धपुष्पकः' इति शुभाङ्गः। —करो मर्दकोऽस्य इति मुकुटः । तन्न । उक्तकोशविरोधात् ॥


प्रक्रिया

धातुः - मृदँ क्षोदे


मृद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर + अम् + मृद् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
कर + मृद् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कर + मृद् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करमर्द - पुगन्तलघूपधस्य च 7.3.86
करमर्द + सु + कन् - संज्ञायां कन् 5.3.75
करमर्द + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
करमर्दक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करमर्दक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
करमर्दक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करमर्दक + रु - ससजुषो रुः 8.2.66
करमर्दक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करमर्दकः - खरवसानयोर्विसर्जनीयः 8.3.15