सुषेणः

सुधाव्याख्या

शोभना सेना यस्य । ‘एति संज्ञायामगात्' (८.३.९९) इति षत्वम् । ‘रषाभ्याम्-' (८.४.१) इति णत्वम् । मुकुटस्तु सुष्ठ सिनोति । ‘षिञ् बन्धने' (स्वा० उ० अ०) । ‘कृवृतॄ स्वपिसिद्भ्यो नः' – इत्याह । उज्ज्वलदत्तादौ तूणादिसूत्रस्य ‘कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्’ (३.१०) इति पाठो दृश्यते । (‘सुषेणः करमर्दे स्याद्विष्णुसुग्रीववैद्ययोः' इति मेदिनी) ॥