कलिङ्गः

सुधाव्याख्या

एतेति । कलिं गच्छति । अन्तर्भावितण्यर्थाद्गमेः ‘अन्यत्रापि’ (वा० ३.२.४८) इति डः । -‘खच्च डिच्च' (३.२.३८) - इति मुकुटः । - कलिं गायति इति स्वामी ॥


प्रक्रिया

धातुः - गमॢँ गतौ


गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कलि + अम् + गम् + ड - अन्यत्रापि दृश्यत इति वक्तव्यम् । (3.2.48) वार्तिकम् ।
कलि + गम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
कलि + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
कलि + ग् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
कलिं + ग - निपातनात् ।
कलिङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
कलिङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कलिङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कलिङ्ग + रु - ससजुषो रुः 8.2.66
कलिङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कलिङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15