अबन्ध्यः

सुधाव्याख्या

बन्ध्य इति । ‘बन्धस्त्वाधौ च बन्धने । बन्धे साधुः । ‘तत्र साधुः (४.४.९८) इति यत् । यतु मुकुटः - दिगादित्वात् (४.३.५४) यत् इत्याह । तन्न । अस्य सूत्रस्य ‘तत्र भवः (४.३.५३) इत्यत्र पाठात् । तत्र साधुः इत्यस्य ‘प्राग्घिताद्यत् (४.४.७५) इत्यधिकारे पाठात् ॥


प्रक्रिया

बन्ध + ङि + यत् - तत्र साधुः 4.4.98
बन्ध + यत् - सुपो धातुप्रातिपदिकयोः 2.4.71
बन्ध + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9,
बन्ध् + य - यस्येति च 6.4.148
नञ् + बन्ध्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नञ् + बन्ध्य - सुपो धातुप्रातिपदिकयोः 2.4.71
न + बन्ध्य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + बन्ध्य - नलोपो नञः 6.3.73
अबन्ध्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अबन्ध्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अबन्ध्य + रु - ससजुषो रुः 8.2.66
अबन्ध्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अबन्ध्यः - खरवसानयोर्विसर्जनीयः 8.3.15