ओषधिः

सुधाव्याख्या

ओषेति । ओषः प्लोषो दीप्तिर्वा धीयतेऽत्र । ‘डुधाञ् धारणपोषणयोः (जु० उ० अ०) । 'कर्मण्यधिकरणे च' (३.३.९३) इति कि: ॥ (‘कृदिकारात्' (ग ४.१.४५) इति ङीषि 'ओषधी’ अपि) ॥