वानस्पत्यः

सुधाव्याख्या

वानेति । वनस्य पतिः । 'पारस्करप्रभृतीनि’ (६.१.१५७) इति सुट् । वनस्पतौ भवः । दित्यदित्या-' (४.१.८५) इति । ण्यः पुष्पाज्जातैः फलैर्हेतुभिः ॥


प्रक्रिया

वन + ङस् + पति + सु - षष्ठी 2.2.8
वन + पति - सुपो धातुप्रातिपदिकयोः 2.4.71
वन + सुट् + पति - पारस्करप्रभृतीनि च संज्ञायाम् 6.1.157
वन + स् + पति - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वनस्पति + ङि + ण्य - दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः 4.1.85
वनस्पति + ण्य - सुपो धातुप्रातिपदिकयोः 2.4.71
वनस्पति + य - चुटू 1.3.7, तस्य लोपः 1.3.9
वनस्पत् + य - यस्येति च 6.4.148
वानस्पत् + य - तद्धितेष्वचामादेः 7.2.117
वानस्पत्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वानस्पत्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वानस्पत्य + रु - ससजुषो रुः 8.2.66
वानस्पत्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वानस्पत्यः - खरवसानयोर्विसर्जनीयः 8.3.15