शिवा

सुधाव्याख्या

शिवं करोति । ‘तत्करोति (वा० ३.१.२६) इति णिच् । पचाद्यच् (३.१.१३४) । 'शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । वालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान् । सुखे क्षेमे जले क्लीबं शिवा झाटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु च' इति मेदिनी ॥