राजादनः

सुधाव्याख्या

राजेति । राजभिरद्यते । ‘अद भक्षणे' (अ० प० अ०) । कर्मणि ल्युट् (३.३.११४) । ‘राजादनं क्षीरिकायां पियाले किंशुकेऽपि च । ‘राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके इति हैमात् पुंलिङ्गोऽपि ॥