अर्जुनः

सुधाव्याख्या

अर्ज्यते । ‘अर्ज अर्जने-' (भ्वा० प० से०) । ‘अर्जेर्णिलुक् च' (उ० ३.५८) इत्युनन् ॥ ‘पार्थस्तु ककुभे जिष्णौ' इति विश्वात् पार्थोऽपि ॥