प्लक्षः

सुधाव्याख्या

प्रक्षरति । ‘क्षर संचलने' (भ्वा० प० से०) । ‘अन्येभ्योऽपि' (वा० ३.२.१०१) इति डः । ‘कपिलिकादित्वात्’ (वा० ८.२.१८) लत्वम् । ‘प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके' इति हैमः ॥


प्रक्रिया

धातुः - क्षरँ सञ्चलने


क्षर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + क्षर् + ड - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
प्र + क्षर् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
प्र + क्ष् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
प्लक्ष - कपिलकादीनां संज्ञाच्छन्दसोर्वेति वाच्यम् (8.1.18) । वार्तिकम् ।
प्लक्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्लक्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लक्ष + रु - ससजुषो रुः 8.2.66
प्लक्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लक्षः - खरवसानयोर्विसर्जनीयः 8.3.15