यूपः

सुधाव्याख्या

युवन्त्यनेन । ‘यु मिश्रणामिश्रणयोः' (अ० प० से०) । ‘कुयुभ्यां च' (उ० ३.२७) इति पो दीर्घश्च । मुकुटस्तु - ‘पूष वृद्धौ' (भ्वा० प० से०) । इगुपधत्वात् (३.१.१३५) कः । पवते वा । ‘यूप्वोर्लोपश्च' इति पवतेरूषन् धात्वन्तलोपः - इति वदन् ‘पूषः' इति पाठे मन्यते । किन्तु ‘यूप्वोर्लोपश्च' इति सूत्रमुज्ज्वलदत्तादौ न दृश्यते ॥