नूदः

सुधाव्याख्या

नूद इति । नुदति पापम् । णुद प्रेरणे' (तु० उ० अ०) । ‘इगुपध-' (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । -‘अन्येषामपि’ (६.३.१३७) इति दीर्घः – इति मुकुटः । तन्न । तत्र ‘उत्तरपदे' इत्यधिकारात् । - ‘घञर्थे क: इत्यपि न । यद्वा नुवदति । ‘वद व्यक्तायां वाचि' (भ्वा० प० से०) । मूलविभुजादिः (वा० ३.२.५) । कर्मणः कर्त्त्वम् । यद्वा नूयते। ‘णू स्तुतौ’ (तु० प० से०) कुटादिः । बाहुलकाद्दः ॥ ‘तूदः' इति स्वामी । तत्र ‘तुद व्यथने' (तु० उ० अ०) । ‘इगुपध-' (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) ॥