लाक्षाप्रसादनः

सुधाव्याख्या

लाक्षा प्रसीदत्यनेन । युच् (उ० २.७८) करणे । लाक्षां प्रसादयति वा । ‘कृत्यल्युट:' (३.३.११३) इति ल्युट् ॥


प्रक्रिया

धातुः - षदॢँ विशरणगत्यवसादनेषु


षद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सद् - धात्वादेः षः सः 6.1.64
लाक्षा + सु + प्र + साद् + युच् - बहुलमन्यत्रापि (२.७८) । उणादिसूत्रम् ।, उपपदमतिङ् 2.2.19
लाक्षा + प्र + साद् + युच् - सुपो धातुप्रातिपदिकयोः 2.4.71
लाक्षा + प्र + साद् + युच् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लाक्षा + प्र + साद् + अन - युवोरनाकौ 7.1.1
लाक्षाप्रसादन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लाक्षाप्रसादन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लाक्षाप्रसादन + रु - ससजुषो रुः 8.2.66
लाक्षाप्रसादन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लाक्षाप्रसादनः - खरवसानयोर्विसर्जनीयः 8.3.15