पट्टी

सुधाव्याख्या

पट्टोऽस्यास्ति । ‘अत इनि -' (५.२.११५) । ‘पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः' ॥ यद्वा पट्टिशब्दात् क्तिजन्तान्ङीष् (ग० ४.१.४५) । (‘पट्टिः स्त्रीपट्टभेदे स्याल्ललाटे क्रमुकद्रुमे । ‘पट्टी ललाटभूषायां पट्टी लाक्षाप्रसादने' इति टवर्गान्ते विश्व:) ॥