क्रमुकः

सुधाव्याख्या

केति । क्रामति । ‘क्रमु पादविक्षेपे' (भ्वा० प० से०) । बाहुलकादुकः । ‘क्रमुकः पट्टिकालोध्रे गुवाके भद्रमुस्तके' । यत्तु – शिल्पिसंज्ञयोः - ' (उ० २.३२) इति कुनि वा इत्याह मुकुटः । तन्न । ‘क्रमक' इति रूपापत्तेः ॥