वृक्षवाटिका

सुधाव्याख्या

कृत्रिमवृक्षसमूहस्य । अमेति । वट्यते । ‘वट वेष्टने’(भ्वा० प० से०) । संज्ञायाम् (३.३.१०९) इति ण्वुल् । 'वुञ्' इति मुकुटस्य प्रमादः । टाप् (४.१.४) । प्रत्ययस्थात्-’ (७.३.४४) इतीत्वम् । वृक्षाणां सा ॥


प्रक्रिया

धातुः - वटँ वेष्टने


वट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वट् + ण्वुल् - संज्ञायाम्‌ 2.1.44
वट् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वट् + अक - युवोरनाकौ 7.1.1
वाट् + अक - अत उपधायाः 7.2.116
वाटक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
वाटक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वाटका - अकः सवर्णे दीर्घः 6.1.101
वाटिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
वृक्ष + आम् + वाटिका + सु - षष्ठी 2.2.8
वृक्ष + वाटिका - सुपो धातुप्रातिपदिकयोः 2.4.71
वृक्षवाटिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वृक्षवाटिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृक्षवाटिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68