जम्बूः

सुधाव्याख्या

फले इति । जमति । ‘जमु अदने’ (भ्वा० प० से०) ॥ ‘अन्दूदृम्भूजम्बू-' (उ० १.९३) इत्यनेन कूप्रत्ययो बुगागमश्च निपातितः । ‘जम्बूः स्यात्पादपान्तरे । तथा सुमेरुसरिति द्वीपभेदेऽपि च स्त्रियाम्' । जम्ब्वाः फलम् । 'जम्ब्वा वा’ (४. ३.१६५) इत्यम् । तस्य विधानसामर्थ्यान्न लुक्। पक्षे 'ओरञ्' (४.१.१३९) तस्य ‘लुप् च' (४.३.१६६) इति वा लुप् । ‘लुपि युक्तवत्-' (१.२.५१) । पक्षे फले ‘लुक्’ (४.३.१६३) । लुपि जम्बूः ॥