कुट्मलः

सुधाव्याख्या

कुट्मल इति । कुट्यते, कुटति, वा । ‘कुट छेदने’ कौटिल्ये' (तु० प० से०) वा । ‘कुटिकशिभ्यां क्मलच् (उ० १.१०९) इति क्मलचि ॥ बाहुलकात् 'कुडे:' (तु० प० मे०) अपि (क्मनि ‘कुड्मल:') । (‘कुड्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे') ॥