स्तबकः

सुधाव्याख्या

स्तूयते । 'ष्टुञ् स्तुतौ' (अ० प० अ०) । ‘कृञादिभ्यः' (उ० ५.३५) इति वुन् । यद्वा तिष्ठति । ‘स्थ: स्तोऽम्बजबकौ' (उ० ४.९६) ॥


प्रक्रिया

धातुः - ष्टुञ् स्तुतौ


ष्टु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्तु - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
स्तु + वुन् - कृञादिभ्यः संज्ञायाम् वुन् (५.३५) । उणादिसूत्रम् ।
स्तु + वु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्तु + अक - युवोरनाकौ 7.1.1
स्तो + अक - सार्वधातुकार्धधातुकयोः 7.3.84
स्तव् + अक - एचोऽयवायावः 6.1.78
स्तबक - वबयोरैक्यम् ।
स्तबक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्तबक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तबक + रु - ससजुषो रुः 8.2.66
स्तबक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तबकः - खरवसानयोर्विसर्जनीयः 8.3.15