गुत्सकः

सुधाव्याख्या

स्यादिति । गुध्यते 'गुध परिवेष्टने' (दि० प० से०) । ‘उन्दिगुधिषिभ्यश्च' (उ० ३.६८) इति स: कित् । 'स्तबके हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः' इति दन्त्यान्तेषु रुद्रः ॥ श्रीभोजस्तु 'शस्यादिभ्यश्छक्' इत्याह । स्वार्थे कन् (५.३.७५) । ‘पुष्पादिस्तबके गुच्छो मुक्ताहारकलापयोः' इति चवर्गान्ते रन्तिदेवः ॥