जालकम्

सुधाव्याख्या

जालमिव । ‘इवे प्रति-' (५.३.९६) इति कन् । जालकं कोरके दम्भे कुलायानाययोरपि । न पुंसि मोचनफले स्त्रियां तु वसनान्तरे । गिरिसारजलौकायामपि स्याद्विधवास्त्रियाम् । भटानामश्मरचिताङ्गक्षिण्यां च जालिका' ॥