प्रसारिणी

सुधाव्याख्या

प्रसार्यतेऽङ्गमनया । ‘करणा-' (३.३.११३) इति ल्युट् ॥ ‘सारणी' इत्यपि । (‘सारणो राक्षसान्तरे) । रुग्भेदे ना, प्रसारण्यां स्वल्पनद्यां च सारिणी (इति मेदिनी) ॥


प्रक्रिया

धातुः - सृ गतौ


प्र + सृ + णिच् - हेतुमति च 3.1.26
प्र + सृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्र + सार् + इ - अचो ञ्णिति 7.2.115
प्र + सार् + इ + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113
प्रसार् + ल्युट् - णेरनिटि 6.4.51
प्रसार् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रसार् + अन - युवोरनाकौ 7.1.1
प्रसारण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
प्रसारण + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
प्रसारण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रसारण् + ई - यस्येति च 6.4.148
प्रसारणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रसारणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रसारणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68