सरणा

सुधाव्याख्या

सरेति । सरति । ‘सृ गतौ’(भ्वा० प० अ०) । ‘बहुलमन्यत्रापि’(उ० २.७८) इति युच् ॥ ल्युटि (३.३.११३) ‘सरणी' इत्यपि । ‘सरणा सरणी चार्वी कटम्भरा महाबला' इति रुद्रः ॥